||Sundarakanda ||

|| Sarga 61||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकांड.
अथ एकषष्टितमस्सर्गः॥

ततो जाम्बवतो वाक्यमगृःणन्त वनौकसः।
अङ्गदप्रमुखा वीरा हनुमांश्च महाकपिः॥1||

प्रीतिमन्तः ततः सर्वे वायुपुत्त्र पुरस्सराः।
महेंद्राद्रिं परित्यज्य पुप्लुवुः प्लवगर्षभाः॥2||

मेरुमंदरसंकाशा मत्ता इव महागजाः।
छादयंत इवाकाशं महाकाया महाबलाः॥3||

सभाज्यमानं भूतैः तं आत्मवंतं महाबलम्।
हनूमंतं महावेगं वहंत इव दृष्टिभिः॥4||

राघवेचार्थनिर्वृत्तिं कर्तुं च परमं यशः।
समादाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः॥5||

प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनंदिनः।
सर्वे रामप्रतीकारे निश्चितार्धा मनस्विनः॥6||

प्लवमानाः खमाप्लुत्य ततस्ते काननौकसः।
नंदनोपममासेदुर्वनं द्रुमलतायुतम्॥7||

यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्।
अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्॥8||

यद्रक्षति महावीर्यः सदा ददिमुखः कपिः।
मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः॥9||

ते त द्वन मुपागम्य बभूवुः परमोत्कटाः।
वानरा वानरेन्द्रस्य मनः कांततमं महत्॥10||

ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्।
कुमारं अभ्ययाचंत मधूनि मधुपिङ्गळाः॥11||

ततः कुमारस्तान् वृद्धान् जांबवत्प्रमुखान् कपीन्।
अनुमान्य ददौ तेषां विसर्गं मधुभक्षणे॥12||

ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः।
मुदिताः प्रेरिताश्चापि प्रनृत्यंतोsभवं स्ततः॥13||

गायंति केचित् प्रणमंति केचित्
नृत्यंति केचित् प्रहसंति केचित्।
पतंति केचित् विचरंति केचित्
प्लवंति केचित् प्रलपंति केचित्॥14||

परस्परं केचिदुपाश्रयंते
परस्परं केचिदुपाक्रमंते।
परस्परं केचिदुपब्रुवंते
परस्परं केचिदुपारमंते॥15||

द्रुमाद्द्रुमं केचिदभिद्रवंते
क्षितौनगाग्रान् निपतंति केचित्।
महीतला केचिदुदीर्णवेगा
महाद्रुमाग्राण्यभिसंपतंति ॥16||

गायंतमन्यः प्रहसन्नुपैति
हसंतमन्यः प्ररुदन्नुपैति।
रुदंत मन्यः प्रणुदन्नुपैति
नुदंतमन्यः प्रणदन्नुपैति॥17||

समाकुलं तत्कपि सैन्यमासीन्
मधुप्रसानोत्कट सत्त्वचेष्टं ।
न चात्रकश्चन्नभभूव मत्तो
न चात्र कश्चिन्नबभूव तृप्तः॥18||

ततो वनं तत्परिभक्ष्यमाणम्
द्रुमांश्च विध्वंसितपत्त्रपुष्पान्।
समीक्ष्य कोपाद्दधिवक्त्रनामा
निवारयामास कपिः कपींस्तान्॥19||

सतैः प्रवृद्धैः परिभर्त्स्यमानो
वनस्य गोप्ता हरिवीरवृद्धः।
चकार भूयो मति मुग्रतेजा
वनस्य रक्षां प्रति वानरेभ्यः॥20||

उवाचकांश्चित्परुषाणि धृष्ट
मसक्तमन्यांश्च तलैर्जघान।
समेत्यकैश्चित् कलहं चकार
तथैव साम्नोपजगाम कांश्चित्॥21||

सतैर्मदात् संपरिवार्य वाक्यै
र्बलाच्च तेन प्रतिवार्यमाणैः।
प्रधर्षितः त्यक्तभयैः समेत्य
प्रकृष्यते चा प्यनवेक्ष्य दोषम्॥22||

नखैस्तुदंतो दशनैर्दशंतः
तलैश्च पादैश्च समापयंतः।
मदात्कपिं कपयः समग्रा
महावनं निर्विषयं च चक्रुः॥23||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे एकषष्टितमस्सर्गः ॥

॥ om tat sat||